पृष्ठम्:यतिराजविजयम्.pdf/105

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽङ्कः ५९ (नेपथ्ये) जय जय नरसिंह नारायणानन्त तुभ्यं नमी जय जय भुजगेन्द्रशायिन् सुखें योगनिद्र!Sतु ते । जय जय तव सुप्रभातां निशIऽस्तु प्रसीद् प्रभो ! जय जय करुणानिधे जागृहि श्रीपते ! जागृहैि । ३४ । अपि च--- जय जय भगवन् ! प्रसीद प्रपन्नार्तिहारिन् हरे ! विरमतु तव थेोगनिद्राविनिद्रा, रविन्दो'{भiम् । मयि वरद ! निधेहि दृष्टिं, समुत्तिष्ठ शष्य-लात् फणिपतिमधितिष्ठ भद्रासने भद्रसेवाऽस्तु ते । ३५ । राजा-{ अश्रवं नाटयति ) देवी --(सभयम) महाराज ! समुसिज माम् । अलमति५सगन । भद्राय ने भवतु भगवतः प्रभातभोगावली । राजा-५ सखेदम) अमृतास्वादवेलयामवसित शर्वरी । (पुनर्नेपथ्ये ) जय जय महाराज ! भवतः सुप्रभातमेतु । चन्द्रो मण्डलमालशेषविभवः छायाविरामादयं सम्मीलन्ति च तारकास्तत इतः सक्तावशेषं तमः । प्रत्यासीदति भानुमानपि दिश प्राचीनबहिंमतीं निद्रां मुञ्च कुरुष्व देव ! कुशलिन्नत्त्रोत्सवं प्राणिनाम् ॥ ३६ ।। देवी -( विहस्य ) सुमतिसंगतस्य कुतॊ निद्रा देवस्य { राजा--(समितम ) देवि ! निद्रासंगमपि मे किं मृष्यति भवती । देवी . . वयमपि प्रातःकालनियमनिर्वर्तनाय गच्छामः । ( इति देवेन सह निष्क्रान्ताः सर्वे,} इति घटिकाशत श्रीमद्वादाचार्यविरचिते 'यतिराजविजये सुमतिक्रीडा नाम चतुर्थऽङ्कः ।