आचार्ययत्नैश्चिरकालसेवितं प्राचार्यहस्तेन हितेन वर्धितम् । शिष्याय गुर्वोरुभयोः समाप्तये प्राचीनविद्यात्मकपुस्तकं जहे ॥ समाप्तमेवेत्यसमाप्तमप्यदो विभाति मे संप्रवहज्जलौघवत् । शानोदधिं धीसरितो ह्यनन्तकाः प्रवर्धयन्तीव सनातनै रयैः ॥ कोप्युद्यमादल्पनदीमुपानये ज्यानार्णवे ऽगाधनदीमिहापरः । कीर्तीप्सुना यत्नशतैरुपासिता भक्तस्य नामापि तु वाड्न पृच्छति ॥ विद्याम्बुधौ यो निनयेत्महानदीं यो वा कुकुखां समदृष्टिरेतयोः । जिशासया ये तृषिताः पबन्त्विति प्रादाद्दरं नो मुदिता सरस्वती ॥ श्रीह्वित्निना कर्मफलेष्वसड्निना गीतोपेषाञ्चरितं प्रसाधितम् । लोकप्रशंसा किल तेन नादृता लोकोपकार्यैक्षत सत्यमेव सः ॥ ग्रन्यं तदीयं स्वविलम्ब्य योजये ह्रेदार्थतत्त्वग्रहणस्य साधनम् । विद्यार्थनं संहरति क्षणे यमो विद्या तु नैव म्रियते कदा चन ॥
C.R.L.
Cranberry Isles, Maine,Summer, 1904.