SEVENTH DISCOURSE.
श्रीभगवानुवाच ।
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥The Blessed Lord said:
With the mind[1] clinging to me, O Pârtha, performing yoga, refuged in Me, how thou shalt without doubt know Me to the uttermost, that hear thou. (1)
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥
I will declare to thee this knowledge and wisdom in its completeness, which, having known, there is nothing more here needeth to be known. (2)
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥
- ↑ Manah.