NINTH DISCOURSE.
श्रीभगवानुवाच ।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥The Blessed Lord said:
To thee, the uncarping, verily shall I declare this profoundest Secret, wisdom with knowledge combined, which, having known, thou shalt be freed from evil. (1)
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
Kingly Science, kingly Secret, supreme Purifier, this; intuitional, according to righteousness,[1] very easy to perform, imperishable. (2)
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
Men without faith in this knowledge,[1] O