Page:Lanman's Sanskrit Reader.pdf/20

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.
Nala. I.
3

ततो ऽन्तरिक्षगो वाचं व्याजहार नलं तदा ।
हन्तव्यो ऽस्मि न ते राजन् करिष्यामि तव प्रियम् ॥२०॥
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध ।
यथा चद् अन्यं पुरुषं न सा मंस्यति कर्हि चित् ॥२१॥
5एवम् उक्तम् ततो हंसम् उत्ससर्ज महीपतिः ।
ते तु हंसाः समुत्पत्य विभीन् अगमं ततः ॥२२॥
विदर्भनगरीं गत्वा दमयन्यास् तदान्तिके ।
निपेतुस ते गरुत्मन्तः सा ददर्श च तान् गणान् ॥२३॥
सा तान् अद्भुतरूपान् वै दृष्ट्वा सखिगणावृता ।
10हृष्टा यहीतुं खगमांस त्वरमाणोपचक्रमे ॥२४॥
अथ हंसा विससृपुः सर्वतः प्रमदावने ।
एकैकशस् तदा कन्यास् तान् हंसान समुपाद्रवन् ॥२५॥
दमयन्ती तु यं हंसं समुपाधावद अन्तिके ।
स मानुषीं गिरं कृत्वा दमयन्तीम् अथाब्रवीत् ॥२६॥
15दमयन्ति नलो नाम निषधेषु महीपतिः ।
अश्विनोः सदृशो रूपे न समास् तस्य मानुषाः ॥२७॥
तस्य वै यदि भायी त्वं भवेथा वरवर्णिनि।
सफलं ते भवेज जन्म रूपं चेदं सुमध्यमे ॥२६॥
वयं हि देवगन्धर्वमानुषोगराक्षसान् ।
20दृष्टवन्तो न चास्माभिर् दृष्टपूर्वस् तथाविधः ॥२९॥
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः ।
विशिष्टाया विशिष्टेन संगमो गुणवान् भवेत् ॥३०॥
एवम् उक्ता तु हंसेन दमयन्ती विशां पते ।