श्रुत्वा तु पार्थिवाः सर्वे दमयन्याः स्वयंवरम् ।
अभिजग्मुस् ततो भीमं राजानो भीमशासनात् ॥९॥
हस्त्यश्वरथघोषेण पूरयन्तो वसुंधराम् ।
विचित्रमाल्याभरणैर् बलैर् दृश्यैः स्वलंकृतः ॥१०॥
5तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम् ।
यथार्हम् अकरोत पूजा ते ऽवसंस् तब पूजिताः ॥११॥
एतस्मिन् एव काले तु सुराणाम् ऋषिसत्तमौ।
अटमानौ महात्मानाव् इन्द्रलोकम् इतो गतौ ॥१२॥
नारदः पर्वतश् चैव महाप्राज्ञौ महाव्रतौ।
10 देवराजस्य भवनं विविशाते सुपूजितौ ॥१३॥
ताव अर्चयित्वा मघवा ततः कुशलम् अव्ययम्।
पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ॥१४॥
नारद उवाच।
आवयोः कुशलं देव सर्वत्र गतम् ईश्वर ।
15 लोके च मघवन कृत्स्ने नृपाः कुशलिनो विभो ॥१५॥
बृहदश्व उवाच।
नारदस्य वचः श्रुत्वा पप्रच्छ वलवृत्रहा।
धर्मज्ञाः पृथिवीपालास् त्यक्तजीवितयोधिनः ॥१६॥
शस्त्रेण निधनं काले ये गच्छन्य अपराङ्मुखाः।
20 अयं लोको ऽक्षयस् तेषां यथैव मम कामधुक् ॥१७॥
क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तान् अहम्।
आगच्छतो महीपालान दयितान अतिथीन् मम ॥१८॥