Page:Lanman's Sanskrit Reader.pdf/29

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

सख्यश्चास्या मया दृष्टास्ताभिश्चायुपलक्षितः ।
विस्मिताश्चाभवन्सी दृष्ट्वा मां विबुधेश्वराः ॥२७॥
वर्ण्यमानेषु च मया भवत्सु रुचिरानना।
मामेव गतसंकल्पा वृणीते सा सुरोतमाः ॥ २० ॥
5अब्रवीञ्चैव मां बाला आयान्तु सहिताः मुराः ।
त्वया सह नरव्याघ्र मम यत्र स्वयंवरः ॥२९॥
तेषामहं संनिधौ त्वां वरयिष्यामि नैषध।
एवं तव महाबाहो दोषो न भवितेति ह ॥३०॥
एतावदेव विबुधा यथावृत्तमुदाहृतम् ।
10मया शेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥३१॥

॥ इति नलोपाख्याने चतुर्थः सर्गः ॥४॥




बृहदश्व उवाच ।

अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा।

आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥१॥
15तच्छ्रुत्वा पृथिवीपालाः सर्वे हछयपीडिताः ।
त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः ॥२॥
कनकस्तम्भरुचिरं तोरणेन विराजितम् ।
विविशुस्ते नृपा रॉ महासिंहा इवाचलम् ॥३॥
तवासनेषु विविधेष्वासीनाः पृथिवीक्षितः।
20सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः ॥४॥
तच रस पीना दृश्यन्ते बाहवः परिघोपमाः।