Page:Lanman's Sanskrit Reader.pdf/32

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः ।
आश्वासयवरारोहां प्रहृष्टेनान्तरात्मना ॥२९॥
यत्वं भजसि कल्याणि पुमांसं देवसंनिधौ।
तस्मान्मां विद्धि भतारमेवं ते वचने रतम् ॥३०॥
5यावच्च मे धरियन्ति प्राणा देहे शुचिस्मिते ।
तावत्वयि भविष्यामि सत्यमेतब्रवीमि ते ॥३१॥
दमयन्ती तथा वाग्भिरभिनन्द्य कृताञ्जलिः ।
.......................॥३२॥
तौ परस्परतः प्रीतौ दृष्ट्वा त्वग्निपुरोगमान ।
10तानेव शरणं देवाञ्जग्मतुर्मनसा तदा ॥३३॥
वृते तु नैषधे भैम्या लोकपाला महौजसः ।
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ॥३४॥
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् ।
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ॥३५॥
15अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः ।
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ॥३६॥
यमस्त्वनरसं प्रादाद्धर्मे च परमां स्थितिम् ।
अपां पतिरपां भावं यत्र वाञ्छति नैषधः ॥३७॥
सजश्चोत्तमगन्धायाः सर्वे च मिथुनं ददुः ।
20वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः ॥३॥
पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः।
दमयन्याश्च मुदिताः प्रतिजग्मुर्यथागतम् ॥३९॥
गतेषु पार्थिवेन्देषु भीमः प्रीतो महामनाः ।