Page:Lanman's Sanskrit Reader.pdf/18

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.

1

॥ अथ नलोपाख्यानम् ॥^

बृहदश्व उवाच ।^

आसीद् राजा नलो नाम^ वीरसेनसुतो बली।^
उपपन्नो गुणैर् इष्टै^ रूपवान् अश्वकोविदः^ ॥१॥
5अतिष्ठन् मनुजेन्द्राणां^ मूर्ध्नि देवपतिर् यथा^
उपर्य् उपरि सर्वेषाम्^ आदित्य इव तेजसा^ ॥२॥
ब्रह्मण्यो वेदविच् छूरो^ निषधेषु महीपतिः^
अक्षप्रियः सत्यवादी महान् अक्षौहिणीपतिः ॥३॥
ईप्सितो नरनारीणाम् उदारः संयतेन्द्रियः ।
10रक्षिता धन्विनां श्रेष्ठः साक्षाद् इव मनुः स्वयम् ॥४॥
तथैवासीद् विदर्भेषु भीमो भीमपराक्रमः ।
शूरः सर्वगुणैर् युक्तः प्रजाकामः स चाप्रजः ॥५॥
स प्रजार्थे परं यत्नम् अकरोत् सुसमाहितः ।
तम् अभ्यगच्छद् ब्रह्मर्षिर् दमनो नाम भारत ॥६॥
15तं स भीमः प्रजाकामम् तोषयामास धर्मवित् ।
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ॥७॥
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ ।