Page:Lanman's Sanskrit Reader.pdf/27

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

विषमनिं जलं रज्जुमास्थास्ये तव कारणात् ॥४॥
एवमुक्तस्तु वैदा नलस्तां प्रत्युवाच ह ।
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥५॥
येषामहं लोककृतामीश्वराणां महात्मनाम् ।
5न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥६॥
विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति।
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥७॥
विरजांसि च वासांसि दिव्याश्चिवाः स्रजस्तथा।
भूषणानि च मुख्यानि देवान्प्राय तु भुञ्ज वै ॥॥
10 य इमां पृथिवीं कृस्त्रिां संक्षिय यसते पुनः ।
हुताशमीशं देवानां का तं न वरयेत्पतिम् ॥९॥
यस्य दण्डभयात्सर्वे भूतयामाः समागताः ।
धर्ममेवानुरुभ्यन्ति का तं न वरयेत्पतिम् ॥१०॥
धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् ।
15 महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम् ॥११॥
क्रियतामविशङ्केन मनसा यदि मन्यसे ।
वरणं लोकपालानां सुबहाक्पमिदं शृणु ॥१२॥
नैषधेनैवमुक्ता सा दमयन्ती वचो ऽब्रवीत् ।
समानुताभ्यां नेवाभ्यां शोकजेनाथ वारिणा ॥१३॥
20 देवेभ्यो ऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते।
वृणे त्वामेव भतार सत्यमेतद्वीमि ते ॥१४॥
तामुवाच ततो राजा वेपमानां कृताञ्जलिम् ।
दौत्येनागत्य कल्याणि कथं स्वार्थमिहोत्सहे ॥१५॥