Page:Systems-of-Sanskrit-Grammar-SK Belvalkar.pdf/126

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

118 Systems of Sanskrit Grammar [App. ii. - APPENDIX ii. ( See note 2 on page 48 ) ॥ अथ जोगराजविरचिता पादश्करणसङ्गतिः ॥ ॐ नमः शिवाय । ॐ । आराध्य षण्मुखमवाप्तवरप्रसादः कारुण्यपूर्णहृदयः किल शर्ववर्मा । लोकस्य मोहतिमिराहतये व्यधत्त सोपतः प्रकरणत्रितयात्मशास्त्रम् ॥ १ ॥ तत्रादितो व्यधित वर्णपदेषु सन्धि तत्रानुनासिकपदं बहुकारकादि । आख्यातिकं तदनु साध्यपदं कियाख्य- मेतावर्तेन हि समन्वयमात्रलाभः ॥ २ ॥ संज्ञाश्य परिभाषाश्च प्रथमे पाद आदिशेत् । द्वितीये स्वरसन्धि च तृतीये तन्निषेधनम् ॥ 3 ॥ वैयञ्जनं चतुर्थे च सन्धि वैसर्गिक परे । षष्ठे प्रथमवच्चैवं सन्धिप्रकरणं जगौ ॥ ४ ॥ नाम्न आये स्वरान्तस्य लिङ्गस्य स्यादिनिर्णयः । स्वरान्तव्यञ्जनान्तस्य द्वितीचे युष्मदस्मदोः ॥ ५ ॥ तृतीयेपि त्यदादीनामित्थं नामपदस्थितिः । चतुर्थे कारकस्येह विनियोगोथ पञ्चमे ॥ ६ ॥ समासवृत्तिसिद्धस्य तद्वतेष्वपि वर्तनम् । षष्ठेथ सप्तमे प्रोक्तलिङ्गात् स्त्रीप्रत्ययात् स्त्रियाम् ॥ ७ ॥ इदं नामपदं सिद्धं सक्षेपात् समुपादिशत् । तदन्तन्तमतो वित्तं वाङ्मयस्योपबृंहणम् ॥ ८ ॥ आख्यातेष्वादितः कालपुरुषार्थे नियोजनाः। न्यात्युदेशे ( ? ) द्वितीयेपि सनादिप्रत्ययान्तता ॥ ९ ॥ ततो विकरणा आत्मनेपरस्मैविनिर्णयः । तृतीयेभ्यासकार्याणि चतुर्थे सम्प्रसारणम् ॥ १० ॥